हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   Sanatana Dharm సనాతన ధర్మం
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Yuddha Kanda Sarga 82 – युद्धकाण्ड द्व्यशीततमः सर्गः (८२)


॥ हनूमदादिनिर्वेदः ॥

श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमस्वनम् ।
वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥

तानुवाच ततःसर्वान्हनुमान्मारुतात्मजः ।
विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥

कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः ।
त्यक्तयुद्धसमुत्साहाः शूरत्वं क्व नु वो गतम् ॥ ३ ॥

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।
शूरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४ ॥

एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः ।
शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ।
परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥

स तैर्वानरमुख्यैश्च हनुमान्सर्वतो वृतः ।
हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥

स राक्षसानां कदनं चकार सुमहाकपिः ।
वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥

स तु कोपेन चाविष्टः शोकेन च महाकपिः ।
हनुमान्रावणिरथेऽपातयन्महतीं शिलाम् ॥ ९ ॥

तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।
विधेयाश्वसमायुक्तः सुदूरमपवाहितः ॥ १० ॥

तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् ।
विवेश धरणीं भित्त्वा सा शिला व्यर्थमुद्यता ॥ ११ ॥

पातितायां शिलायां तु रक्षसां व्यथिता चमूः ।
निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ १२ ॥

तमभ्यधावन् शतशो नदन्तः काननौकसः ।
ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः ॥ १३ ॥

क्षिपन्तीन्द्रजितः सङ्ख्ये वानरा भीमविक्रमाः ।
वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ॥ १४ ॥

शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ।
वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः ॥ १५ ॥

वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ।
स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ॥ १६ ॥

प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ।
स शरौघानवसृजन् स्वसैन्येनाभिसंवृतः ॥ १७ ॥

जघान कपिशार्दूलान्स बहून्दृष्टविक्रमः ।
शूलैरशनिभिः खड्गैः पट्‍टिशैः कूटमुद्गरैः ॥ १८ ॥

ते चाप्यनुचरास्तस्य वानरान्जघ्नुरोजसा ।
सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः ॥ १९ ॥

हनुमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ।
स निवार्य परानीकमब्रवीत्तान्वनौकसः ॥ २० ॥

हनुमान्सन्निवर्तध्वं न नः साध्यमिदं बलम् ।
त्यक्त्वा प्राणान्विवेष्टन्तो रामप्रियचिकीर्षवः ॥ २१ ॥

यन्निमित्तं हि युद्ध्यामो हता सा जनकात्मजा ।
इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ॥ २२ ॥

तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ।
इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ॥ २३ ॥

शनैः शनैरसन्त्रस्तः सबलः सन्न्यवर्तत ।
ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र राघवः ॥ २४ ॥

स हेतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ।
निकुम्भिलामधिष्ठाय पावकं जुहवेन्द्रजित् ॥ २५ ॥

यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ।
हूयमानः प्रजज्वाल मांसशोणितभुक्तदा ॥ २६ ॥

सोऽर्चिःपिनद्धो ददृशे होमशोणिततर्पितः ।
सन्ध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ॥ २७ ॥

अथेन्द्रजिद्राक्षसभूतये तु
जुहाव हव्यं विधिना विधानवित् ।
दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते
महासमूहेषु नयानयज्ञाः ॥ २८ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीततमः सर्गः ॥ ८२ ॥


www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.